Sukta 9.23
अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति । जघान जघनच्च नु ॥
अ॒स्य पी॒त्वा मदा॑ना॒मिन्द्रो॑ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥
asyá pītvā́ madā́nām índro vṛtrā́ṇy apratí | jaghā́na jaghánac ca nú ||
Having drunk of these ecstasies, Indra smote the Vṛtras that resist—he has smitten them, and even now he goes on smiting.
अ॒स्य । पी॒त्वा । मदा॑नाम् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घान॑ । ज॒घन॑त् । च॒ । नु ॥अस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति । जघान । जघनत् । च । नु ॥asya | pītvā | madānām | indraḥ | vṛtrāṇi | aprati | jaghāna | jaghanat | ca | nu