Sukta 9.22
एते सोमास आशवो रथा इव प्र वाजिनः । सर्गाः सृष्टा अहेषत ॥
ए॒ते सोमा॑स आ॒शवो॒ रथा॑ इव॒ प्र वा॒जिन॑: । सर्गा॑: सृ॒ष्टा अ॑हेषत ॥
eté somāsa āśávo ráthā iva prá vājínaḥ | sárgāḥ sṛṣṭā́ aheṣata ||
These swift Soma-powers, like chariots, surge forward—bearers of plenitude-force; released as streams, they thunder in their outpouring.
ए॒ते । सोमा॑सः । आ॒शवः॑ । रथाः॑ऽइव । प्र । वा॒जिनः॑ । सर्गाः॑ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥एते । सोमासः । आशवः । रथाःइव । प्र । वाजिनः । सर्गाः । सृष्टाः । अहेषत ॥ete | somāsaḥ | āśavaḥ | rathāḥ-iva | pra | vājinaḥ | sargāḥ | sṛṣṭāḥ | aheṣata