Sukta 9.19
यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु । तन्नः पुनान आ भर ॥
यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ । तन्न॑: पुना॒न आ भ॑र ॥
yát sóma citrám ukthyàṃ divyáṃ pārthívam vásu | tán naḥ punāná ā́ bhara ||
Whatever bright and manifold treasure, O Soma—worthy of the hymn, heavenly and also earthly—bring that to us as you purify yourself (in the inner stream).
यत् । सो॒म॒ । चि॒त्रम् । उ॒क्थ्य॑म् । दि॒व्यम् । पार्थि॑वम् । वसु॑ । तत् । नः॒ । पु॒न॒नः । आ । भ॒र॒ ॥यत् । सोम । चित्रम् । उक्थ्यम् । दिव्यम् । पार्थिवम् । वसु । तत् । नः । पुननः । आ । भर ॥yat | soma | citram | ukthyam | divyam | pārthivam | vasu | tat | naḥ | punanaḥ | ā | bhara