Sukta 9.17
मधोर्धारामनु क्षर तीव्रः सधस्थमासदः । चारुॠताय पीतये ॥
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑ॠ॒ताय॑ पी॒तये॑ ॥
mádhor dhā́rām ánu kṣara tīvráḥ sadha-sthám ā́ asadaḥ | cā́rur ṛtā́ya pītáye ||
Flow following the stream of sweetness; intense in power, take thy seat in the common seat of the rite—beautiful for the Truth, for the drinking of the gods within us.
मधोः॑ । धारा॑म् । अनु॑ । क्ष॒र॒ । ती॒व्रः । स॒धऽस्थ॑म् । आ । अ॒स॒दः॒ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥मधोः । धाराम् । अनु । क्षर । तीव्रः । सधस्थम् । आ । असदः । चारुः । ऋताय । पीतये ॥madhoḥ | dhārām | anu | kṣara | tīvraḥ | sadha-stham | ā | asadaḥ | cāruḥ | ṛtāya | pītaye