Sukta 9.17
अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति । विघ्नन्रक्षांसि देवयुः ॥
अत्यू॑र्मिर्मत्स॒रो मद॒: सोम॑: प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥
atyū́rmir matsaró mádaḥ sómaḥ pavítre arṣati | vi-ghnán rakṣā́ṃsi deva-yúḥ ||
Soma, an overbrimming wave of ecstasy and delight, flows through the purifier, striking apart the hostile powers of darkness; for he yearns toward the gods, toward the divine life.
अति॑ऽऊर्मिः । म॒त्स॒रः । मदः॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ । वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥अतिऊर्मिः । मत्सरः । मदः । सोमः । पवित्रे । अर्षति । विघ्नन् । रक्षांसि । देवयुः ॥ati-ūrmiḥ | matsaraḥ | madaḥ | somaḥ | pavitre | arṣati | vi-ghnan | rakṣāṃsi | deva-yuḥ