Sukta 9.17
प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । सोमा असृग्रमाशवः ॥
प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शव॑: ॥
prá nimnéneva síndhavo ghnánto vṛtrā́ṇi bhū́rṇayaḥ | sómā asṛgram āśávaḥ ||
Forward the swift Somas surge like rivers down a slope, smiting the obstructions; whirling in their force they rush on, breaking what bars the free course.
प्र । नि॒मेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः । सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥प्र । निमेनइव । सिन्धवः । घ्नन्तः । वृत्राणि । भूर्णयः । सोमाः । असृग्रम् । आशवः ॥pra | nimena-iva | sindhavaḥ | ghnantaḥ | vṛtrāṇi | bhūrṇayaḥ | somāḥ | asṛgram | āśavaḥ