Sukta 8.92
मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते । मत्स्वा सुतस्य गोमतः ॥
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते । मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥
mó ṣú brahméva tandrayúr bhuvo vājānāṃ pate | mátsvā sutásya gómataḥ ||
Do not, like a drowsy priestly mind, become slack; O lord of plenitudes, take delight—be exhilarated by the pressed Soma rich in luminous rays (cows of light).
मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥मो इति । सु । ब्रह्माइव । तन्द्रयुः । भुवः । वाजानाम् । पते । मत्स्व । सुतस्य । गोमतः ॥mo iti | su | brahmāiva | tandrayuḥ | bhuvaḥ | vājānām | pate | matsva | sutasya | go--mataḥ