Sukta 8.91
असौ य एषि वीरको गृहंगृहं विचाकशद् । इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥
अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् । इ॒मं जम्भ॑सुतं पिब धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥
asáu yá éṣi vīráko gṛháṃgṛhaṃ vicā́kaśat | imáṃ jámbhasutaṃ piba dhānā́vantaṃ karambhíṇam apū́pavantaṃ ukthínam ||
This one who goes about, the bold visitor, making himself known from house to house—drink this, the pressed delight from the jaws (the crushing), rich with grains and mixed offering, with cakes, with the power of the hymn. Let the wandering force be satisfied by the prepared essence.
अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् । इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥असौ । यः । एषि । वीरकः । गृहम्गृहम् । विचाकशत् । इमम् । जम्भसुतम् । पिब । धानावन्तम् । करम्भिणम् । अपूपवन्तम् । उक्थिनम् ॥asau | yaḥ | eṣi | vīrakaḥ | gṛham-gṛham | vi-cākaśat | imam | jambha-sutam | piba | dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam