Sukta 8.91
कन्या वारवायती सोममपि स्रुताविदत् । अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥
क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् । अस्तं॒ भर॑न्त्यब्रवी॒दिन्द्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥
kanyā́ vārāvāyátī sómam ápi srutā́vidat | ástaṃ bháranty abravīd índrāya sunavai tvā śákrāya sunavai tvā ||
The maiden, moving with a wide cry, found Soma along the flowing path. Carrying it home she spoke: ‘For Indra I will press you, for the Mighty I will press you’—so the delight is prepared for the force that conquers.
क॒न्या॑ । वाः । आ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् । अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥कन्या । वाः । आवयती । सोमम् । अपि । स्रुता । अविदत् । अस्तम् । भरन्ती । अब्रवीत् । इन्द्राय । सुनवै । त्वा । शक्राय । सुनवै । त्वा ॥kanyā | vāḥ | āva-yatī | somam | api | srutā | avidat | astam | bharantī | abravīt | indrāya | sunavai | tvā | śakrāya | sunavai | tvā