Sukta 8.9
यन्नूनं धीभिरश्विना पितुर्योना निषीदथः । यद्वा सुम्नेभिरुक्थ्या ॥
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः । यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥
yán nū́naṃ dhī́bhir aśvinā pitúr yónā niṣī́dathaḥ | yád vā sumnébhir ukthyā́ ||
Now when, O Ashvins, by the illumined thoughts you take your seat in the Father’s womb; or when by your gladnesses, O you worthy of the hymn, (you come near)—then establish yourselves within us.
यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः । यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥यत् । नूनम् । धीभिः । अश्विना । पितुः । योना । निसीदथः । यत् । वा । सुम्नेभिः । उक्थ्या ॥yat | nūnam | dhībhiḥ | aśvinā | pituḥ | yonā | ni-sīdathaḥ | yat | vā | sumnebhiḥ | ukthyā