Sukta 8.9
आ नूनं यातमश्विनेमा हव्यानि वां हिता । इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता । इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
ā nūnám yātam aśvinemā́ havyā́ni vāṃ hitā́ | imé sómāso ádhi turváśe yádāv imé káṇveṣu vā́m átha ||
Come now, O Aśvins; these offerings for you are set in place. These Somas are laid out for Turvaśa, and these are (also) among the Kāṇvas for you—therefore come.
आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता । इ॒मे । सोमा॑सः । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता । इमे । सोमासः । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥ā | nūnam | yātam | aśvinā | imā | havyāni | vām | hitā | ime | somāsaḥ | adhi | turvaśe | yadau | ime | kaṇveṣu | vām | atha