Sukta 8.9
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । यदादित्येभिॠभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒: समो॑कसा । यदा॑दि॒त्येभि॑ॠ॒भुभि॑: स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
yád índreṇa saráthaṃ yāthó aśvinā yád vā vāyúnā bhávathaḥ sámokasā | yád ādityébhiḥ ṛbhúbhiḥ sajóṣasā yád vā víṣṇor vikrámaṇeṣu tíṣṭhathaḥ ||
Whether with Indra you journey on one chariot, O Aśvins, or whether with Vāyu you dwell in the same home; whether with the Ādityas and the R̥bhus you are in one delight of companionship, or whether you stand in the wide strides of Viṣṇu—remember and act here for our becoming.
यत् । इन्द्रे॑ण । स॒रथ॑म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थः । सम्ऽओ॑कसा । यत् । आ॒दि॒त्येभिः॑ । ऋ॒भुऽभिः॑ । स॒ऽजोष॑सा । यत् । वा॒ । विष्णोः॑ । वि॒ऽक्रम॑णेषु । तिष्ठ॑थः ॥यत् । इन्द्रेण । सरथम् । याथः । अश्विना । यत् । वा । वायुना । भवथः । सम्ओकसा । यत् । आदित्येभिः । ऋभुभिः । सजोषसा । यत् । वा । विष्णोः । विक्रमणेषु । तिष्ठथः ॥yat | indreṇa | saratham | yāthaḥ | aśvinā | yat | vā | vāyunā | bhavathaḥ | sam-okasā | yat | ādityebhiḥ | ṛbhu-bhiḥ | sa-joṣasā | yat | vā | viṣṇoḥ | vi-kramaṇeṣu | tiṣṭhathaḥ