Sukta 8.89
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि । घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि । घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥
āmā́su pakvám airaya ā́ sū́ryaṃ rohayo diví | gharmáṃ ná sā́man tapata suvṛ́ktibhir júṣṭaṃ gírvāṇase bṛhát ||
From the raw states you raise up the ripened power; you cause the Sun to mount in the heaven. Like a heat that becomes a chant, you make the vast Truth blaze—welcomed by our well-fashioned words—for the Lord of the inspired utterance.
आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि । घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि । घर्मम् । न । सामन् । तपत । सुवृक्तिभिः । जुष्टम् । गिर्वणसे । बृहत् ॥āmāsu | pakvam | airayaḥ | ā | sūryam | rohayaḥ | divi | gharmam | na | sāman | tapata | suvṛkti-bhiḥ | juṣṭam | girvaṇase | bṛhat