Sukta 8.85
आ मे हवं नासत्याश्विना गच्छतं युवम् । मध्वः सोमस्य पीतये ॥
आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑ ॥
ā́ me hávaṃ nāsatyā́śvinā gácchataṃ yuvám | mádhvaḥ sómasya pītáye ||
Come to my call, O Nāsatyas, O Aśvins, you two: come for the drinking of the honeyed Soma—come to taste the delight that awakens the inner sweetness of being.
आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥आ । मे । हवम् । नासत्या । अश्विना । गच्छतम् । युवम् । मध्वः । सोमस्य । पीतये ॥ā | me | havam | nāsatyā | aśvinā | gacchatam | yuvam | madhvaḥ | somasya | pītaye