Sukta 8.84
दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कदु वोच इदं नमः ॥
दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो । कदु॑ वोच इ॒दं नम॑: ॥
dā́śema kásya mánasā yajñásya sahaso yaho | kádu voca idáṃ námaḥ ||
To whom, with what mind, shall we offer this sacrifice, O Power of forceful energy? And when indeed shall I be able to utter this bowing of the being—this true submission of the soul?
दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ । कत् । ऊँ॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति । कत् । ऊँ इति । वोचे । इदम् । नमः ॥dāśema | kasya | manasā | yajñasya | sahasaḥ | yaho iti | kat | oṃ iti | voce | idam | namaḥ