Sukta 8.81
एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् । न राधसा मर्धिषन्नः ॥
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्व॑: स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥
éto nv índraṃ stavāmeśā́naṃ vásvaḥ sva-rā́jam | ná rādhasā mardhiṣan naḥ ||
Come then—let us affirm Indra in the chant, the master of the riches, the self-king in his own sovereignty; may he not crush us by his bounty, but set it rightly upon us.
एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् । न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥एतो इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्वराजम् । न । राधसा । मर्धिषत् । नः ॥eto iti | nu | indram | stavāma | īśānam | vasvaḥ | sva-rājam | na | rādhasā | mardhiṣat | naḥ