Sukta 8.8
दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा । धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥
दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा । धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥
diváś cid rocanā́d adhyā́ nó gantaṃ svar-vidā | dhī́bhir vatsa-pracetasā stómebhir havana-śrutā ||
Even from the luminous heaven’s wide shining come to us, O finders of the Sun-world; with inspired thoughts—O clear-minded as a beloved child—by our hymns, O hearers of the call, arrive.
दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ । आ । नः॒ । ग॒न्त॒म् । स्वः॒ऽवि॒दा॒ । धी॒भिः । व॒त्स॒ऽप्र॒चे॒त॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ॥दिवः । चित् । रोचनात् । अधि । आ । नः । गन्तम् । स्वःविदा । धीभिः । वत्सप्रचेतसा । स्तोमेभिः । हवनश्रुता ॥divaḥ | cit | rocanāt | adhi | ā | naḥ | gantam | svaḥ-vidā | dhībhiḥ | vatsa-pracetasā | stomebhiḥ | havana-śrutā