Sukta 8.71
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः । उत द्विषो मर्त्यस्य ॥
त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः । उ॒त द्वि॒षो मर्त्य॑स्य ॥
tváṃ no agne mahóbhíḥ pāhí víśvasyā arā́teḥ | utá dvíṣo mártyasya ||
You, O Agni, protect us by your vast powers from every lack and hostile want, and also from the hatred of the mortal.
त्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः । उ॒त । द्वि॒षः । मर्त्य॑स्य ॥त्वम् । नः । अग्ने । महःभिः । पाहि । विश्वस्याः । अरातेः । उत । द्विषः । मर्त्यस्य ॥tvam | naḥ | agne | mahaḥ-bhiḥ | pāhi | viśvasyāḥ | arāteḥ | uta | dviṣaḥ | martyasya