Sukta 8.66
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति । सेमं न॒: स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥
vṛ́kaś cid asya vāraṇá urā́mathirā́ vayúneṣu bhūṣati | sémam naḥ stómaṃ jujuṣāṇá ā́ gahī́ndra prá citráyā dhiyā́ ||
Even the wolf-like guardian-force of his, the wide-shaking energy, takes pleasure in the workings; accept then our hymn and come, O Indra, forward with a many-colored light of thought—an illumined intelligence that arranges the ways.
वृकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒ष॒ति॒ । सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥वृकः । चित् । अस्य । वारणः । उरामथिः । आ । वयुनेषु । भूषति । सः । इमम् । नः । स्तोमम् । जुजुषाणः । आ । गहि । इन्द्र । प्र । चित्रया । धिया ॥vṛkaḥ | cit | asya | vāraṇaḥ | urāmathiḥ | ā | vayuneṣu | bhūṣati | saḥ | imam | naḥ | stomam | jujuṣāṇaḥ | ā | gahi | indra | pra | citrayā | dhiyā