Sukta 8.65
यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे । यद्वा समुद्रे अन्धसः ॥
यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे । यद्वा॑ समु॒द्रे अन्ध॑सः ॥
yád vā́ pra-srávaṇe divó mā́dayāse svàrṇare | yád vā́ samudré ándhasaḥ ||
Whether it is at the outflowing stream of heaven that you become intoxicated, O leader of the luminous heights, or whether it is in the ocean-depth of the pressed delight—there too you are the power that takes joy and increases force within us.
यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे । यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥यत् । वा । प्रस्रवणे । दिवः । मादयासे । स्वःनरे । यत् । वा । समुद्रे । अन्धसः ॥yat | vā | pra-sravaṇe | divaḥ | mādayāse | svaḥ-nare | yat | vā | samudre | andhasaḥ