Sukta 8.56
अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः । अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥
अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः । अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥
áceti agníś cikitúr havya-vā́ṭ sá sumád-rathaḥ | agníḥ śukréṇa śóciṣā bṛhát-sū́ro arocata diví sū́ryo arocata ||
Agni has awakened—he who knows, the bearer of the offering; he comes with a chariot of gladness. With his bright flame the vast Sun becomes luminous; in the heaven the Sun is revealed in radiance.
अचे॑ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒ऽवाट् । सः । सु॒मत्ऽर॑थः । अ॒ग्निः । शु॒क्रेण॑ । शो॒चिषा॑ । बृ॒हत् । सूरः॑ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः॑ । अ॒रो॒च॒त॒ ॥अचेति । अग्निः । चिकितुः । हव्यवाट् । सः । सुमत्रथः । अग्निः । शुक्रेण । शोचिषा । बृहत् । सूरः । अरोचत । दिवि । सूर्यः । अरोचत ॥aceti | agniḥ | cikituḥ | havya-vāṭ | saḥ | sumat-rathaḥ | agniḥ | śukreṇa | śociṣā | bṛhat | sūraḥ | arocata | divi | sūryaḥ | arocata