Sukta 8.55
आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः । श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥
आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रव॑: । श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥
ā́d ítsāptásya carkiran nā́nūnasya máhi śrávaḥ | śyā́vīr ati-dhvasán páthaś cákṣuṣā caná sámnaśe ||
Then indeed, praising the sevenfold, the great fame of the undiminished grows. The dark ones are driven beyond the paths; even by sight they cannot come into union—so the obscurity is excluded from the way.
आत् । इत् । सा॒प्तस्य॑ । च॒र्कि॒र॒न् । न । अनू॑नस्य । महि॑ । श्रवः॑ । श्यावीः॑ । अ॒ति॒ऽध्व॒सन् । प॒थः । चक्षु॑षा । च॒न । स॒म्ऽनशे॑ ॥आत् । इत् । साप्तस्य । चर्किरन् । न । अनूनस्य । महि । श्रवः । श्यावीः । अतिध्वसन् । पथः । चक्षुषा । चन । सम्नशे ॥āt | it | sāptasya | carkiran | na | anūnasya | mahi | śravaḥ | śyāvīḥ | ati-dhvasan | pathaḥ | cakṣuṣā | cana | sam-naśe