Sukta 8.55
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । मह्ना दिवं न तस्तभुः ॥
श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते । म॒ह्ना दिवं॒ न त॑स्तभुः ॥
śatáṃ śvetā́sa ukṣáṇo diví tā́ro ná rocante | mahnā́ diváṃ ná tastabhuḥ ||
A hundred bright bulls shine in heaven like stars; by greatness they uphold the heaven itself—so stands the wide field of consciousness supported by the powers of light.
श॒तम् । श्वे॒तासः॑ । उ॒क्षणः॑ । दि॒वि । तारः॑ । न । रो॒च॒न्ते॒ । म॒ह्ना । दिव॑म् । न । त॒स्त॒भुः॒ ॥शतम् । श्वेतासः । उक्षणः । दिवि । तारः । न । रोचन्ते । मह्ना । दिवम् । न । तस्तभुः ॥śatam | śvetāsaḥ | ukṣaṇaḥ | divi | tāraḥ | na | rocante | mahnā | divam | na | tastabhuḥ