Sukta 8.55
भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति । राधस्ते दस्यवे वृक ॥
भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥
bhūríd índrasya vīryàṃ vy àkhyam abhy ā́yati | rā́dhas te dasyáve vṛka ||
Abundant indeed is Indra’s heroic power, clearly made manifest as it advances towards us. Your abundance comes forth, O Wolf (strong one), for the serving seeker—an offering of plenitude to the one who strives.
भूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ । राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥भूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति । राधः । ते । दस्यवे । वृक ॥bhūri | it | indrasya | vīryam | vi | akhyam | abhi | ā | ayati | rādhaḥ | te | dasyave | vṛka