Sukta 8.51
यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
yásmai tváṃ vaso dānā́ya śíkṣasi sá rāyás póṣam aśnute | táṃ tvā vayáṃ maghavann indra girvaṇaḥ sutā́vanto havāmahe ||
Whomsoever thou, O Wealth-Lord, trainest for the giving, he attains the increase of plenitude. Thee, O bounteous Indra, delighting in the chant, we—pressers of Soma—call to our offering.
यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ । तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥यस्मै । त्वम् । वसो इति । दानाय । शिक्षसि । सः । रायः । पोषम् । अश्नुते । तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । सुतवन्तः । हवामहे ॥yasmai | tvam | vaso iti | dānāya | śikṣasi | saḥ | rāyaḥ | poṣam | aśnute | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe