Sukta 8.48
त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः । त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥
त्वं न॑: सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑: । त्वं न॑ इन्द ऊ॒तिभि॑: स॒जोषा॑: पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥
tvaṃ naḥ soma viśvátó vayo-dhā́s tvaṃ svàr-vidā́ víśā nṛ-cákṣāḥ | tvaṃ na indo ūtíbhíḥ sa-jóṣāḥ pā́hi paścā́tād utá vā purástāt ||
Thou, O Soma, art the giver of strength from every side; thou, finder of the Sun-world, enter among the peoples as the seer of men. Thou, O Indu, with thy consenting helps, protect us from behind and also from the front.
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ । त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥त्वम् । नः । सोम । विश्वतः । वयःधाः । त्वम् । स्वःवित् । आ । विश । नृचक्षाः । त्वम् । नः । इन्दो इति । ऊतिभिः । सजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥tvam | naḥ | soma | viśvataḥ | vayaḥ-dhāḥ | tvam | svaḥ-vit | ā | viśa | nṛ-cakṣāḥ | tvam | naḥ | indo iti | ūti-bhiḥ | sa-joṣāḥ | pāhi | paścātāt | uta | vā | purastāt