Sukta 8.45
यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति । वसु स्पार्हं तदा भर ॥
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति । वसु॑ स्पा॒र्हं तदा भ॑र ॥
yásya te viśvá-mānuṣo bhū́rer dátasya véditi | vásu spārháṃ tád ā́ bhara ||
He who, among all men, truly knows the abundance of what you have given—bring to us that desirable treasure: the real wealth of fullness of being.
यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥यस्य । ते । विश्वमानुषः । भूरेः । दत्तस्य । वेदति । वसु । स्पार्हम् । तत् । आ । भर ॥yasya | te | viśva-mānuṣaḥ | bhūreḥ | dattasya | vedati | vasu | spārham | tat | ā | bhara