Sukta 8.45
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः । वसु स्पार्हं तदा भर ॥
भि॒न्धि विश्वा॒ अप॒ द्विष॒: परि॒ बाधो॑ ज॒ही मृध॑: । वसु॑ स्पा॒र्हं तदा भ॑र ॥
bhindhí víśvā apá dvíṣaḥ párí bā́dho jahī́ mṛ́dhaḥ | vásu spā́rhaṃ tád ā́ bhara ||
Break away all hatreds; drive off the pressures; slay the hostile assailments. Bring then to us the desirable wealth—fullness of being and force.
भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ । वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः । वसु । स्पार्हम् । तत् । आ । भर ॥bhindhi | viśvāḥ | apaḥ | dviṣaḥ | pari | bādhaḥ | jahi | mṛdhaḥ | vasu | spārham | tat | ā | bhara