Sukta 8.45
बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑: । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
bṛhánn íd idhmá eṣāṃ bhū́ri śastáṃ pṛthúḥ sváruḥ | yeṣām índro yúvā sákhā ||
Great indeed is their fuel of the Fire; abundant is their word of praise; broad is their luminous opening—of such, Indra the ever-youthful becomes the companion-friend.
बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः । येषाम् । इन्द्रः । युवा । सखा ॥bṛhan | it | idhmaḥ | eṣām | bhūri | śastam | pṛthu | svaruḥ | yeṣām | indraḥ | yuvā | sakhā