Sukta 8.44
यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिषः ॥
यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा॑ घा॒ स्या अ॒हम् । स्युष्टे॑ स॒त्या इ॒हाशिष॑: ॥
yád agne syā́m aháṃ tváṃ tváṃ vā ghā syā́ ahám | syúṣ ṭe satyā́ ihā́-śíṣaḥ ||
If, O Agni, I could become you—or you could become me—then your true boons would be here fulfilled for us in this embodied life.
यत् । अ॒ग्ने॒ । स्या॒म् । अ॒हम् । त्वम् । त्वम् । वा॒ । घ॒ । स्याः । अ॒हम् । स्युः । ते॒ । स॒त्याः । इ॒ह । आ॒ऽशिषः॑ ॥यत् । अग्ने । स्याम् । अहम् । त्वम् । त्वम् । वा । घ । स्याः । अहम् । स्युः । ते । सत्याः । इह । आशिषः ॥yat | agne | syām | aham | tvam | tvam | vā | gha | syāḥ | aham | syuḥ | te | satyāḥ | iha | āśiṣaḥ