Sukta 8.36
अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिष॒: पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
avitā́si sunvató vṛktá-barhiṣaḥ píbā sómaṃ mádāya káṃ śatakrato | yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pṛ́tanāḥ urú jráyaḥ sám apsu-jín marútvān índra sat-pate ||
You are the rescuer of the Soma-presser whose seat of offering is made ready; drink the Soma for ecstasy, O wielder of a hundred powers. The portion they have set for you—by it may you, conquering all battles, win wide-going force and victory even in the waters (the depths), O Indra, lord of the true ones, companioned by the Maruts.
अ॒वि॒ता । अ॒सि॒ । सु॒न्व॒तः । वृक्तऽब॑र्हिषः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥अविता । असि । सुन्वतः । वृक्तबर्हिषः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुजित् । मरुत्वान् । इन्द्र । सत्पते ॥avitā | asi | sunvataḥ | vṛkta-barhiṣaḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate