Sukta 8.34
पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु । तिष्ठं वनस्य मध्य आ ॥
पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ । तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥
pārā́vatasya rātíṣu dravác-cakreṣv āśúṣu | tíṣṭhaṃ vánasya mádhya ā́ ||
In the gifts that come from beyond, amid the swift, running wheels, take your stand—enter into the middle of the inner forest: the central depth where the movement can be governed.
पारा॑वतस्य । रा॒तिषु॑ । द्र॒वत्ऽच॑क्रेषु । आ॒शुषु॑ । तिष्ठ॑म् । वन॑स्य । मध्ये॑ । आ ॥पारावतस्य । रातिषु । द्रवत्चक्रेषु । आशुषु । तिष्ठम् । वनस्य । मध्ये । आ ॥pārāvatasya | rātiṣu | dravat-cakreṣu | āśuṣu | tiṣṭham | vanasya | madhye | ā