Sukta 8.30
नहि वो अस्त्यर्भको देवासो न कुमारकः । विश्वे सतोमहान्त इत् ॥
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः । विश्वे॑ स॒तोम॑हान्त॒ इत् ॥
náhi vo ásty arbhakó devāso ná kumārakáḥ | víśve satómahānta ít ||
None of you, O gods, is small—none a mere child; all of you are mighty in the true being, powers of vastness.
न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मार॒कः । विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः । विश्वे । सतःमहान्तः । इत् ॥nahi | vaḥ | asti | arbhakaḥ | devāsaḥ | na | kumārakaḥ | viśve | sataḥ-mahāntaḥ | it