Sukta 8.24
तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे । स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से । स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणि॑: ॥
tám u tvā nūnám īmahe návyaṃ daṃsiṣṭha sányase | sá tváṃ no víśvā abhímātīḥ sakṣáṇiḥ ||
That you, even now, we seek—ever new, O most capable, for our winning; and you, for us, are the one who can endure and overcome all assailing hostilities.
तम् । ऊँ॒ इति॑ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य॑म् । दं॒सि॒ष्ठ॒ । सन्य॑से । सः । त्वम् । नः॒ । विश्वाः॑ । अ॒भिऽमा॑तीः । स॒क्षणिः॑ ॥तम् । ऊँ इति । त्वा । नूनम् । ईमहे । नव्यम् । दंसिष्ठ । सन्यसे । सः । त्वम् । नः । विश्वाः । अभिमातीः । सक्षणिः ॥tam | oṃ iti | tvā | nūnam | īmahe | navyam | daṃsiṣṭha | sanyase | saḥ | tvam | naḥ | vi śvāḥ | abhi-mātīḥ | sakṣaṇiḥ