Sukta 8.23
ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥
ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् । च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥
īḷiṣvā́ hí pratīvyàṃ yáj asva jāta-védasam | cariṣṇú-dhū́mam agṛbhīta-śóciṣam ||
Offer thy will in adoration, for he is the power that stands facing us and answers; sacrifice to Jātavedas, the knower of all births. He moves with his ascending smoke, and his flame is seized by none—an inextinguishable light within the human vessel.
ईळि॑ष्व॑ । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् । च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥ईळिष्व । हि । प्रतीव्यम् । यजस्व । जातवेदसम् । चरिष्णुधूमम् । अगृभीतशोचिषम् ॥īḷiṣva | hi | pratīvyam | yajasva | jāta-vedasam | cariṣṇu-dhāūmam | agṛbhīta-śociṣam