Sukta 8.22
उप नो वाजिनीवसू यातमृतस्य पथिभिः । येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥
उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभि॑: । येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ॥
úpa no vājinīvasū yātám ṛtásya pathíbhiḥ | yébhis tṛ́kṣiṃ vṛṣaṇā trāsadásyavam mahé kṣatrā́ya jínvathaḥ ||
Come near us, O two lords of plenitude and victorious force, travelling by the paths of Ṛta (the right and truth-order). By those selfsame powers with which, O mighty ones, you quicken in Tr̥kṣi Trāsadasyu the great kṣatra—so too increase in us that sovereign strength of the soul.
उप॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । या॒तम् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । येभिः॑ । तृ॒क्षिम् । वृ॒ष॒णा॒ । त्रा॒स॒द॒स्य॒वम् । म॒हे । क्ष॒त्राय॑ । जिन्व॑थः ॥उप । नः । वाजिनीवसू इति वाजिनीवसू । यातम् । ऋतस्य । पथिभिः । येभिः । तृक्षिम् । वृषणा । त्रासदस्यवम् । महे । क्षत्राय । जिन्वथः ॥upa | naḥ | vājinīvasūitivājinī-vasū | yātam | ṛtasya | pathi-bhiḥ | yebhiḥ | tṛkṣim | vṛṣaṇā | trāsadasyavam | mahe | kṣatrāya | jinvathaḥ