Sukta 8.22
ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये । यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ । यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑: ॥
ó tyám ahve ā́ rátham adyā́ daṃsíṣṭham ūtáye | yám aśvínā su-hávā rudra-vartanī ā́ sū́ryāyai tásthathuḥ ||
O—this chariot I call today, most potent in its workings, for our help: that chariot on which you two Aśvins, easy to invoke, moving on Rudra’s paths of force, stood ready for Sūryā—so come with it to our aid.
ओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ । यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒ऽव॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥ओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये । यम् । अश्विना । सुहवा । रुद्रवर्तनी इति रुद्रवर्तनी । आ । सूर्यायै । तस्थथुः ॥o iti | tyam | ahve | ā | ratham | adya | daṃsiṣṭham | ūtaye | yam | aśvinā | su-havā | rudra-vartanī itirudra-vartanī | ā | sūryāyai | tasthathuḥ