Sukta 8.21
चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु । पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥
चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ । प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥
citró id rājā́ rājakā́ id anyaké yaké sárasvatīm ánu | parjányā iva tátanad dhí vṛṣṭyā́ sahásram ayútā dádāt ||
Wondrous indeed is the king, and wondrous the lesser kings—those others who follow after Sarasvatī. For like Parjanya he has stretched forth with the rain; he gives the thousand, the ten-thousand: the overflowing plenitudes.
चित्रः॑ । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ । प॒र्जन्यः॑ऽइव । त॒तन॑त् । हि । वृ॒ष्ट्या । स॒हस्र॑म् । अ॒युता॑ । दद॑त् ॥चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु । पर्जन्यःइव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत् ॥citraḥ | it | rājā | rājakāḥ | it | anyake | yake | sarasvatīm | anu | parjanyaḥ-iva | tatanat | hi | vṛṣṭyā | sahasram | ayutā | dadat