Sukta 8.2
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् । मेषो भूतोऽभि यन्नयः ॥
इ॒त्था धीव॑न्तमद्रिवः का॒ण्वं मेध्या॑तिथिम् । मे॒षो भू॒तो॒३॒॑ऽभि यन्नय॑: ॥
itthā́ dhī́vantam adrivaḥ kā́ṇvaṃ medhyā́tithim | meṣó bhūto ’bhí yán náyaḥ ||
Thus, O wielder of the pressing-stone, you lead toward yourself the Kaṇva, rich in thought, the worthy guest—having become a ram (a force of forward charge), you draw him into the encounter.
इ॒त्था । धीऽव॑न्तम् । अ॒द्रि॒ऽवः॒ । का॒ण्वम् । मेध्य॑ऽअतिथिम् । मे॒षः । भू॒तः । अ॒भि । यन् । अयः॑ ॥इत्था । धीवन्तम् । अद्रिवः । काण्वम् । मेध्यअतिथिम् । मेषः । भूतः । अभि । यन् । अयः ॥itthā | dhī-vantam | adri-vaḥ | kāṇvam | medhya-atithim | meṣaḥ | bhūtaḥ | abhi | yan | ayaḥ