Sukta 8.2
य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् । ये अस्मिन्काममश्रियन् ॥
य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्य॒: शची॑वान् । ये अ॑स्मि॒न्काम॒मश्रि॑यन् ॥
yá ṛté cid gā́spadébhyo dā́t sákhā nṛ́bhyaḥ śácī-vān | yé asmín kā́mam áśriyan ||
He who, even without the usual footholds, gives the rays (cows) as a comrade to the heroic powers—Indra of effective intelligence—to those who have taken refuge in this desire (for the divine).
यः । ऋ॒ते । चि॒त् । गाः । प॒देभ्यः॑ । दात् । सखा॑ । नृऽभ्यः॑ । शची॑ऽवान् । ये । अ॒स्मि॒न् । काम॑म् । अश्रि॑यन् ॥यः । ऋते । चित् । गाः । पदेभ्यः । दात् । सखा । नृभ्यः । शचीवान् । ये । अस्मिन् । कामम् । अश्रियन् ॥yaḥ | ṛte | cit | gāḥ | padebhyaḥ | dāt | sakhā | nṛ-bhyaḥ | śacī-vān | ye | asmin | kāmam | aśriyan