Sukta 8.2
एवेदेष तुविकूर्मिर्वाजाँ एको वज्रहस्तः । सनादमृक्तो दयते ॥
ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः । स॒नादमृ॑क्तो दयते ॥
evéd eṣá tuvi-kūrmír vājā́m̐ éko vájra-hastaḥ | sanā́d amṛ́kto dayate ||
Thus indeed this one, of far-reaching onrush, the sole wielder of the thunderbolt, gives out the plenitudes of force; from of old, uninjured, he dispenses his gift.
ए॒व । इत् । ए॒षः । तु॒वि॒ऽकू॒र्मिः । वाजा॑न् । एकः॑ । वज्र॑ऽहस्तः । स॒नात् । अमृ॑क्तः । द॒य॒ते॒ ॥एव । इत् । एषः । तुविकूर्मिः । वाजान् । एकः । वज्रहस्तः । सनात् । अमृक्तः । दयते ॥eva | it | eṣaḥ | tuvi-kūrmiḥ | vājān | ekaḥ | vajra-hastaḥ | sanāt | amṛktaḥ | dayate