Sukta 8.2
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि । सत्रा दधिरे शवांसि ॥
गिर॑श्च॒ यास्ते॑ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ । स॒त्रा द॑धि॒रे शवां॑सि ॥
gíraś ca yā́s te girvāha ukthā́ ca túbhyaṃ tā́ni | satrā́ dadhiré śávāṃsi ||
The songs and the hymns that are yours, O bearer of the sacred word—those for you have set firmly, all at once, the powers of force: the energies that sustain victory.
गिरः॑ । च॒ । याः । ते॒ । गि॒र्वा॒हः॒ । उ॒क्था । च॒ । तुभ्य॑म् । तानि॑ । स॒त्रा । द॒धि॒रे । शवां॑सि ॥गिरः । च । याः । ते । गिर्वाहः । उक्था । च । तुभ्यम् । तानि । सत्रा । दधिरे । शवांसि ॥giraḥ | ca | yāḥ | te | girvāhaḥ | ukthā | ca | tubhyam | tāni | satrā | dadhire | śavāṃsi