Sukta 8.2
तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः । इन्द्र त्वास्मिन्त्सधमादे ॥
तं ते॒ यवं॒ यथा॒ गोभि॑: स्वा॒दुम॑कर्म श्री॒णन्त॑: । इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥
táṃ te yávaṃ yáthā góbhir svā́dum akarma śrīṇántaḥ | índra tvā́smín tsadhámāde ||
That offering of yours we have made sweet—like barley blended with the rays (cows of light)—as we mix and refine it; O Indra, may you be with us in this common gladness and shared ecstasy.
तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ । इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥तम् । ते । यवम् । यथा । गोभिः । स्वादुम् । अकर्म । श्रीणन्तः । इन्द्र । त्वा । अस्मिन् । सधमादे ॥tam | te | yavam | yathā | gobhiḥ | svādum | akarma | śrīṇantaḥ | indra | tvā | asmin | sadha-māde