Sukta 8.2
रेवाँ इद्रेवतः स्तोता स्यात्त्वावतो मघोनः । प्रेदु हरिवः श्रुतस्य ॥
रे॒वाँ इद्रे॒वत॑: स्तो॒ता स्यात्त्वाव॑तो म॒घोन॑: । प्रेदु॑ हरिवः श्रु॒तस्य॑ ॥
revā́m̐ id revátaḥ stotā́ syāt tvā́vato maghónaḥ | prédu hari-vaḥ śrutásya ||
May the seer who sings become truly rich in the luminous plenitude, for he is upheld by you, O bountiful Indra; and may the fame of the inspired hearing go forth, O lord of the tawny steeds.
रे॒वान् । इत् । रे॒वतः॑ । स्तो॒ता । स्यात् । त्वाऽव॑तः । म॒घोनः॑ । प्र । इत् । ऊँ॒ इति॑ । ह॒रि॒ऽवः॒ । श्रु॒तस्य॑ ॥रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वावतः । मघोनः । प्र । इत् । ऊँ इति । हरिवः । श्रुतस्य ॥revān | it | revataḥ | stotā | syāt | tvāvataḥ | maghonaḥ | pra | it | oṃ iti | hari-vaḥ | śrutasya