Sukta 8.19
त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥
त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि । त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥
ta íd vedíṃ subhaga ta āhútiṃ te sótuṃ cakrire diví | ta íd vā́jebhir jigyur mahád dhánaṃ ye tvé kā́maṃ nyeriré ||
They, O Beautifully Fortunate Fire, have indeed prepared for thee the altar and the offering; they have established for thee the pressing of the delight in the luminous worlds. They indeed by the powers of plenitude win a vast wealth—those who set their soul’s desire into thee.
ते । इत् । वेदि॑म् । सु॒ऽभ॒ग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्रि॒रे॒ । दि॒वि । त् ए । इत् । वाजे॑भिः । जि॒ग्युः॒ । म॒हत् । धन॑म् । ये । त्वे इति॑ । काम॑म् । नि॒ऽ ए॒रि॒रे ॥ते । इत् । वेदिम् । सुभग । ते । आहुतिम् । ते । सोतुम् । चक्रिरे । दिवि । त् ए । इत् । वाजेभिः । जिग्युः । महत् । धनम् । ये । त्वे इति । कामम् । नि एरिरे ॥te | it | vedim | su-bhaga | te | āhutim | te | sotum | cakrire | divi | t e | it | vājebhiḥ | jigyuḥ | mahat | dhanam | ye | tve iti | kāmam | ni- erire