Sukta 8.18
अनर्वाणो ह्येषां पन्था आदित्यानाम् । अदब्धाः सन्ति पायवः सुगेवृधः ॥
अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् । अद॑ब्धा॒: सन्ति॑ पा॒यव॑: सुगे॒वृध॑: ॥
anarvā́ṇo hí eṣāṃ pánthā ādityā́nām | adábdhāḥ sánti pāyávaḥ sugé-vṛ́dhaḥ ||
For unerring is the path of these Ādityas; their guardianship is not to be overreached—protectors who increase the good going, the right passage.
अ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्था॑ । आ॒दि॒त्याना॑म् । अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥अनर्वाणः । हि । एषाम् । पन्था । आदित्यानाम् । अदब्धाः । सन्ति । पायवः । सुगेवृधः ॥anarvāṇaḥ | hi | eṣām | panthā | ādityānām | adabdhāḥ | santi | pāyavaḥ | suge--vṛdhaḥ