Sukta 8.18
इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः । आदित्यानामपूर्व्यं सवीमनि ॥
इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
idáṃ ha nūnám eṣāṃ súmnaṃ bhíkṣeta mártyaḥ | ādityā́nām apū́rvyaṃ savī́mani ||
Now indeed let the mortal ask for this grace of theirs—of the Ādityas—unprecedented and ever-victorious in its moving power.
इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥इदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥idam | ha | nūnam | eṣām | sumnam | bhikṣeta | martyaḥ | ādityānām | apūrvyam | savīmani