Sukta 8.18
आ शर्म पर्वतानामोतापां वृणीमहे । द्यावाक्षामारे अस्मद्रपस्कृतम् ॥
आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे । द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥
ā́ śárma párvatānām ótā́pāṃ vṛṇīmahe | dyāvākṣāmā ā́re asmád rápaḥ kṛtám ||
We choose the peace of the mountains and also the peace of the waters; O Heaven-and-Earth, keep far from us the fashioned affliction, the corrosive hurt.
आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अ॒पाम् । वृ॒णी॒म॒हे॒ । द्यावा॑क्षामा । आ॒रे । अ॒स्मत् । रपः॑ । कृ॒त॒म् ॥आ । शर्म । पर्वतानाम् । आ । उत । अपाम् । वृणीमहे । द्यावाक्षामा । आरे । अस्मत् । रपः । कृतम् ॥ā | śarma | parvatānām | ā | uta | apām | vṛṇīmahe | dyāvākṣāmā | āre | asmat | rapaḥ | kṛtam