Sukta 8.12
यदस्य धामनि प्रिये समीचीनासो अस्वरन् । नाभा यज्ञस्य दोहना प्राध्वरे ॥
यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् । नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥
yád asya dhā́mani priyé samīcīnā́so ásvaran | nā́bhā yajñásya dohanā́ prá adhvaré ||
When, in his beloved seat of power, the rightly-turned ones sounded forth together—then the milch-cows of the sacrifice at its navel yielded their streams, pressing forward in the sacrificial movement.
यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒मी॒ची॒नासः॑ । अस्व॑रन् । नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥यत् । अस्य । धामनि । प्रिये । समीचीनासः । अस्वरन् । नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥yat | asya | dhāmani | priye | samīcīnāsaḥ | asvaran | nābhā | yajñasya | dohanā | pra | adhvare