Sukta 8.12
यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः । घृतं न पिप्य आसन्यृतस्य यत् ॥
यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑: । घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥
yáṁ viprā ukthávāhaso’bhipramandúr ā́yavaḥ | ghṛtáṁ na pipye āsáni ṛtásya yát ||
He whom the seers, bearers of the uplifted word, seeking the way, gladden and press toward—he has drunk as it were the clarified ghee: the thunder-seat of ṛta, that (foundation) of Truth-Order.
यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ । घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥यम् । विप्राः । उक्थवाहसः । अभिप्रमन्दुः । आयवः । घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥yam | viprāḥ | uktha-vāhasaḥ | abhi-pramanduḥ | āyavaḥ | ghṛtam | na | pipye | āsani | ṛtasya | yat